Dienstag, 29. August 2017

Yogasutras-D

Patañjali's Yoga-Sūtras


प्रथमः समाधिपादः।
प्रथमः समाधि-पादः।

अथ योगानुशासनम्  ॥१.१॥
अथ योग-अनुशासनम् ॥१.१॥

योगश्चित्तवृत्तिनिरोधः ॥१.२॥
योगश् चित्त-वृत्ति-निरोधः ॥१.२॥
योगः चित्त-वृत्ति-निरोधः ॥१.२॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥१.३॥
तदा द्रष्टुः स्वरूपे ऽवस्थानम् ॥१.३॥
तदा द्रष्टुः स्वरूपे अवस्थानम् ॥१.३॥

वृत्तिसारूप्यमितरत्र ॥१.४॥
वृत्ति-सारूप्यम् इतरत्र ॥१.४॥

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥१.५॥
वृत्तयः पञ्चतय्यः क्लिष्ट-अक्लिष्टाः ॥१.५॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥१.६॥
प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः ॥१.६॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥१.७॥
प्रत्यक्ष-अनुमान-आगमाः प्रमाणानि ॥१.७॥

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥१.८॥
विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् ॥१.८॥
विपर्ययः मिथ्या-ज्ञानम् अतत्-रूप-प्रतिष्ठम् ॥१.८॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥१.९॥
शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः ॥१.९॥
शब्द-ज्ञान-अनुपाती वस्तु-शून्यः विकल्पः ॥१.९॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥१.१०॥
अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा ॥१.१०॥
अभाव-प्रत्यय-आलम्बना वृत्तिः निद्रा ॥१.१०॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥१.११॥
अनुभूत-विषयासंप्रमोषः स्मृतिः ॥१.११॥
अनुभूत-विषय-असंप्रमोषः स्मृतिः ॥१.११॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१.१२॥
अभ्यास-वैराग्याभ्यां तन्-निरोधः ॥१.१२॥
अभ्यास-वैराग्याभ्याम् तत्-निरोधः ॥१.१२॥

तत्र स्थितौ यत्नोऽभ्यासः ॥१.१३॥
तत्र स्थितौ यत्नो ऽभ्यासः ॥१.१३॥
तत्र स्थितौ यत्नः अभ्यासः ॥१.१३॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१.१४॥
स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः ॥१.१४॥
सः तु दीर्घ-काल-नैरन्तर्य-सत्कार-आसेवितः दृढ-भूमिः ॥१.१४॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१.१५॥
दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥१.१५॥
दृष्ट-अनुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् ॥१.१५॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥१.१६॥
तत् परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् ॥१.१६॥
तत् परं पुरुष-ख्यातेः गुण-वैतृष्ण्यम् ॥१.१६॥

वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥१.१७॥
वितर्क-विचारानन्दास्मिता-रूपानुगमात् संप्रज्ञातः ॥१.१७॥
वितर्क-विचार-आनन्द-अस्मिता-रूप-अनुगमात् संप्रज्ञातः ॥१.१७॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१.१८॥
विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषो ऽन्यः ॥१.१८॥
विराम-प्रत्यय-अभ्यास-पूर्वः संस्कार-शेषः अन्यः ॥१.१८॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१.१९॥
भव-प्रत्ययो विदेह-प्रकृति-लयानाम् ॥१.१९॥
भव-प्रत्ययः विदेह-प्रकृति-लयानाम् ॥१.१९॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥१.२०॥
श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् ॥१.२०॥
श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वकः इतरेषाम् ॥१.२०॥

तीव्रसंवेगानामासन्नः ॥१.२१॥
तीव्र-संवेगानाम् आसन्नः ॥१.२१॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥१.२२॥
मृदु-मध्याधिमात्रत्वात् ततो ऽपि विशेषः ॥१.२२॥
मृदु-मध्य-अधिमात्रत्वात् ततः अपि विशेषः ॥१.२२॥

ईश्वरप्रणिधानाद्वा ॥१.२३॥
ईश्वर-प्रणिधानाद् वा ॥१.२३॥
ईश्वर-प्रणिधानात् वा ॥१.२३॥

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥१.२४॥
क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः ॥१.२४॥
क्लेश-कर्म-विपाक-आशयैः अपरामृष्टः पुरुष-विशेषः ईश्वरः ॥१.२४॥

तत्र निरतिशयं सर्वज्ञबीजम् ॥१.२५॥
तत्र निरतिशयं सर्वज्ञ-बीजम् ॥१.२५॥
तत्र निरतिशयम् सर्वज्ञ-बीजम् ॥१.२५॥

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥१.२६॥
स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् ॥१.२६॥
सः पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात् ॥१.२६॥

तस्य वाचकः प्रणवः ॥१.२७॥

तज्जपस्तदर्थभावनम् ॥१.२८॥
तज्-जपस् तद्-अर्थ-भावनम् ॥१.२८॥
तत्-जपः तत्-अर्थ-भावनम् ॥१.२८॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥१.२९॥
ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च ॥१.२९॥
ततः प्रत्यक्-चेतना-अधिगमः अपि अन्तराय-अभावः च ॥१.२९॥

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥१.३०॥
व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् ते ऽन्तरायाः ॥१.३०॥
व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति-दर्शन-अलब्ध-भूमिकत्व-अनवस्थितत्वानि चित्त-विक्षेपाः ते अन्तरायाः ॥१.३०॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥१.३१॥
दुःख-दौर्मनस्याङ्गम्-एजयत्व-श्वास-प्रश्वासा विक्षेप-सहभुवः ॥१.३१॥
दुःख-दौर्मनस्य-अङ्गम्-एजयत्व-श्वास-प्रश्वासाः विक्षेप-सहभुवः ॥१.३१॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥१.३२॥
तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः ॥१.३२॥
तत्-प्रतिषेध-अर्थम् एक-तत्त्व-अभ्यासः ॥१.३२॥

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥१.३३॥
मैत्री-करुणा-मुदितोपेक्षाणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् ॥१.३३॥
मैत्री-करुणा-मुदिता-उपेक्षाणाम् सुख-दुःख-पुण्य-अपुण्य-विषयाणाम् भावनातः चित्त-प्रसादनम् ॥१.३३॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥१.३४॥
प्रच्छर्दन-विधारणाभ्यां वा प्राणस्य ॥१.३४॥
प्रच्छर्दन-विधारणाभ्याम् वा प्राणस्य ॥१.३४॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥१.३५॥
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थिति-निबन्धनी ॥१.३५॥
विषयवती वा प्रवृत्तिः उत्पन्ना मनसः स्थिति-निबन्धनी ॥१.३५॥

विशोका वा ज्योतिष्मती ॥१.३६॥

वीतरागविषयं वा चित्तम् ॥१.३७॥
वीत-राग-विषयं वा चित्तम् ॥१.३७॥
वीत-राग-विषयम् वा चित्तम् ॥१.३७॥

स्वप्ननिद्राज्ञानालम्बनं वा ॥१.३८॥
स्वप्न-निद्रा-ज्ञानालम्बनं वा ॥१.३८॥
स्वप्न-निद्रा-ज्ञान-आलम्बनम् वा ॥१.३८॥

यथाभिमतध्यानाद्वा ॥१.३९॥
यथाभिमत-ध्यानाद् वा ॥१.३९॥
यथा-अभिमत-ध्यानात् वा ॥१.३९॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥१.४०॥
परमाणु-परम-महत्त्वान्तो ऽस्य वशीकारः ॥१.४०॥
परम-अणु-परम-महत्त्व-अन्तः अस्य वशीकारः ॥१.४०॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः ॥१.४१॥
क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता समापत्तिः ॥१.४१॥
क्षीण-वृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तत्-अञ्जनता समापत्तिः ॥१.४१॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥१.४२॥
तत्र शब्दार्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥१.४२॥
तत्र शब्द-अर्थ-ज्ञान-विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥१.४२॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥१.४३॥
स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का ॥१.४३॥
स्मृति-परिशुद्धौ स्वरूप-शून्य-इव-अर्थ-मात्र-निर्भासा निर्वितर्का ॥१.४३॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥१.४४॥
एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥१.४४॥
एतया एव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता ॥१.४४॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥१.४५॥
सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् ॥१.४५॥
सूक्ष्म-विषयत्वम् च अलिङ्ग-पर्यवसानम् ॥१.४५॥

ता एव सबीजः समाधिः ॥१.४६॥
ताः एव सबीजः समाधिः ॥१.४६॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥१.४७॥
निर्विचार-वैशारद्ये ऽध्यात्म-प्रसादः ॥१.४७॥
निर्विचार-वैशारद्ये अध्यात्म-प्रसादः ॥१.४७॥

ऋतंभरा तत्र प्रज्ञा ॥१.४८॥
ऋतं-भरा तत्र प्रज्ञा ॥१.४८॥
ऋतम्-भरा तत्र प्रज्ञा ॥१.४८॥

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥१.४९॥
श्रुत-अनुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् ॥१.४९॥
श्रुत-अनुमान-प्रज्ञाभ्याम् अन्य-विषया विशेष-अर्थत्वात् ॥१.४९॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥१.५०॥
तज्-जः संस्कारो ऽन्य-संस्कार-प्रतिबन्धी ॥१.५०॥
तत्-जः संस्काः अन्य-संस्कार-प्रतिबन्धी ॥१.५०॥

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥१.५१॥
तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः ॥१.५१॥
तस्य अपि निरोधे सर्व-निरोधात् निर्बीजः समाधिः ॥१.५१॥


इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः। 
इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः। 

द्वितीयः साधनपादः।
द्वितीयः साधन-पादः।

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥२.१॥
तपः-स्वाध्यायेश्वर-प्रणिधानानि क्रिया-योगः ॥२.१॥
तपः-स्वाध्याय-ईश्वर-प्रणिधानानि क्रिया-योगः ॥२.१॥

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥२.२॥
समाधि-भावनार्थः क्लेश-तनू-करणार्थश् च ॥२.२॥
समाधि-भावन-अर्थः क्लेश-तनू-करण-अर्थः च ॥२.२॥

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥२.३॥
अविद्यास्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः ॥२.३॥
अविद्या-अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः ॥२.३॥

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥२.४॥
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् ॥२.४॥
अविद्या क्षेत्रम् उत्तरेषाम् प्रसुप्त-तनु-विच्छिन्न-उदाराणाम् ॥२.४॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥२.५॥
अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या ॥२.५॥
अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म-ख्यातिः अविद्या ॥२.५॥

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥२.६॥
दृग्-दर्शन-शक्त्योर् एकात्मतेवास्मिता ॥२.६॥
दृक्-दर्शन-शक्त्योः एक-आत्मता इव अस्मिता ॥२.६॥

सुखानुशयी रागः ॥२.७॥
सुख-अनुशयी रागः ॥२.७॥

दुःखानुशयी द्वेषः ॥२.८॥
दुःख-अनुशयी द्वेषः ॥२.८॥

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥२.९॥
स्व-रस-वाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः ॥२.९॥
स्व-रस-वाही विदुषः अपि तथा रूढः अभिनिवेशः ॥२.९॥

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥२.१०॥
ते प्रतिप्रसव-हेयाः सूक्ष्माः ॥२.१०॥

ध्यानहेयास्तद्वृत्तयः ॥२.११॥
ध्यान-हेयास् तद्-वृत्तयः ॥२.११॥
ध्यान-हेयाः तत्-वृत्तयः ॥२.११॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥२.१२॥
क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः ॥२.१२॥
क्लेश-मूलः कर्म-आशयः दृष्ट-अदृष्ट-जन्म-वेदनीयः ॥२.१२॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥२.१३॥
सति मूले तद्-विपाको जात्य्-आयुर्-भोगाः ॥२.१३॥
सति मूले तत्-विपाकः जाति-आयुः-भोगाः ॥२.१३॥

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥२.१४॥
ते ह्लाद-परिताप-फलाः पुण्यापुण्य-हेतुत्वात् ॥२.१४॥
ते ह्लाद-परिताप-फलाः पुण्य-अपुण्य-हेतुत्वात् ॥२.१४॥

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥२.१५॥
परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः ॥२.१५॥
परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति-विरोधात् च दुःखम् एव सर्वम् विवेकिनः ॥२.१५॥

हेयं दुःखमनागतम् ॥२.१६॥
हेयं दुःखम् अनागतम् ॥२.१६॥
हेयम् दुःखम् अनागतम् ॥२.१६॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥२.१७॥
द्रष्टृ-दृश्ययोः संयोगो हेय-हेतुः ॥२.१७॥
द्रष्टृ-दृश्ययोः संयोगः हेय-हेतुः ॥२.१७॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२.१८॥
प्रकाश-क्रिया-स्थिति-शीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥२.१८॥
प्रकाश-क्रिया-स्थिति-शीलम् भूत-इन्द्रिय-आत्मकम् भोग-अपवर्ग-अर्थम् दृश्यम् ॥२.१८॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥२.१९॥
विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि ॥२.१९॥
विशेष-अविशेष-लिङ्ग-मात्र-अलिङ्गानि गुण-पर्वाणि ॥२.१९॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥२.२०॥
द्रष्टा दृशि-मात्रः शुद्धो ऽपि प्रत्ययानुपश्यः ॥२.२०॥
द्रष्टा दृशि-मात्रः शुद्धः अपि प्रत्यय-अनुपश्यः ॥२.२०॥

तदर्थ एव दृश्यस्यात्मा ॥२.२१॥
तद्-अर्थ एव दृश्यस्यात्मा ॥२.२१॥
तत्-अर्थः एव दृश्यस्य आत्मा ॥२.२१॥

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥२.२२॥
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तद् अन्य-साधारणत्वात् ॥२.२२॥
कृत-अर्थम् प्रति नष्टम् अपि अनष्टम् तत् अन्य-साधारणत्वात् ॥२.२२॥

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२.२३॥
स्व-स्वामि-शक्त्योः स्वरूपोपलब्धि-हेतुः संयोगः ॥२.२३॥
स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि-हेतुः संयोगः ॥२.२३॥

तस्य हेतुरविद्या ॥२.२४॥
तस्य हेतुर् अविद्या ॥२.२४॥
तस्य हेतुः अविद्या ॥२.२४॥

तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२.२५॥
तद्-अभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥२.२५॥
तत्-अभावात् संयोग-अभावः हानम् तत् दृशेः कैवल्यम् ॥२.२५॥

विवेकख्यातिरविप्लवा हानोपायः ॥२.२६॥
विवेक-ख्यातिर् अविप्लवा हानोपायः ॥२.२६॥
विवेक-ख्यातिः अविप्लवा हान-उपायः ॥२.२६॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥२.२७॥
तस्य सप्तधा प्रान्त-भूमिः प्रज्ञा ॥२.२७॥

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥२.२८॥
योगाङ्गानुष्ठानाद् अशुद्धि-क्षये ज्ञान-दीप्तिर् आ-विवेक-ख्यातेः ॥२.२८॥
योग-अङ्ग-अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आ-विवेक-ख्यातेः ॥२.२८॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥२.२९॥
यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयो ऽष्टाव् अङ्गानि ॥२.२९॥
यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि ॥२.२९॥

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥२.३०॥
अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः ॥२.३०॥
अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः ॥२.३०॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥२.३१॥
जाति-देश-काल-समयानवच्छिन्नाः सार्व-भौमा महा-व्रतम् ॥२.३१॥
जाति-देश-काल-समय-अनवच्छिन्नाः सार्व-भौमाः महा-व्रतम् ॥२.३१॥

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२.३२॥
शौच-संतोष-तपः-स्वाध्यायेश्वर-प्रणिधानानि नियमाः ॥२.३२॥
शौच-संतोष-तपः-स्वाध्याय-ईश्वर-प्रणिधानानि नियमाः ॥२.३२॥

वितर्कबाधने प्रतिपक्षभावनम् ॥२.३३॥
वितर्क-बाधने प्रतिपक्ष-भावनम् ॥२.३३॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥२.३४॥
वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोह-पूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्त-फला इति प्रतिपक्ष-भावनम् ॥२.३४॥
वितर्काः हिंसा-आदयः कृत-कारित-अनुमोदिताः लोभ-क्रोध-मोह-पूर्वकाः मृदु-मध्य-अधिमात्राः दुःख-अज्ञान-अनन्त-फलाः इति प्रतिपक्ष-भावनम् ॥२.३४॥

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२.३५॥
अहिंसा-प्रतिष्ठायां तत्-सन्निधौ वैर-त्यागः ॥२.३५॥
अहिंसा-प्रतिष्ठायाम् तत्-सन्निधौ वैर-त्यागः ॥२.३५॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥२.३६॥
सत्य-प्रतिष्ठायां क्रिया-फलाश्रयत्वम् ॥२.३६॥
सत्य-प्रतिष्ठायाम् क्रिया-फल-आश्रयत्वम् ॥२.३६॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥२.३७॥
अस्तेय-प्रतिष्ठायां सर्व-रत्नोपस्थानम् ॥२.३७॥
अस्तेय-प्रतिष्ठायाम् सर्व-रत्न-उपस्थानम् ॥२.३७॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥२.३८॥
ब्रह्मचर्य-प्रतिष्ठायां वीर्य-लाभः ॥२.३८॥
ब्रह्मचर्य-प्रतिष्ठायाम् वीर्य-लाभः ॥२.३८॥

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥२.३९॥
अपरिग्रह-स्थैर्ये जन्म-कथंता-संबोधः ॥२.३९॥

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥२.४०॥
शौचात् स्वाङ्ग-जुगुप्सा परैर् असंसर्गः ॥२.४०॥
शौचात् स्व-अङ्ग-जुगुप्सा परैः असंसर्गः ॥२.४०॥

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥२.४१॥
सत्त्व-शुद्धि-सौमनस्यैकाग्र्येन्द्रिय-जयात्म-दर्शन-योग्यत्वानि च ॥२.४१॥
सत्त्व-शुद्धि-सौमनस्य-एक-अग्र्य-इन्द्रिय-जय-आत्म-दर्शन-योग्यत्वानि च ॥२.४१॥

संतोषादनुत्तमः सुखलाभः ॥२.४२॥
संतोषाद् अनुत्तमः सुख-लाभः ॥२.४२॥
संतोषात् अनुत्तमः सुख-लाभः ॥२.४२॥

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥२.४३॥
कायेन्द्रिय-सिद्धिर् अशुद्धि-क्षयात् तपसः ॥२.४३॥
काय-इन्द्रिय-सिद्धिः अशुद्धि-क्षयात् तपसः ॥२.४३॥

स्वाध्यायाद् इष्टदेवतासंप्रयोगः ॥२.४४॥
स्वाध्यायाद् इष्ट-देवता-संप्रयोगः ॥२.४४॥
स्वाध्यायात् इष्ट-देवता-संप्रयोगः ॥२.४४॥

समाधिसिद्धिरीश्वरप्रणिधानात् ॥२.४५॥
समाधि-सिद्धिर् ईश्वर-प्रणिधानात् ॥२.४५॥
समाधि-सिद्धिः ईश्वर-प्रणिधानात् ॥२.४५॥

स्थिरसुखमासनम् ॥२.४६॥
स्थिर-सुखम् आसनम् ॥२.४६॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥२.४७॥
प्रयत्न-शैथिल्यानन्त-समापत्तिभ्याम् ॥२.४७॥
प्रयत्न-शैथिल्य-अनन्त-समापत्तिभ्याम् ॥२.४७॥

ततो द्वन्द्वानभिघातः ॥२.४८॥
ततः द्वन्द्व-अनभिघातः ॥२.४८॥

तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥२.४९॥
तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः ॥२.४९॥
तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राणायामः ॥२.४९॥

बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥२.५०॥
बाह्याभ्यन्तर-स्तम्भ-वृत्तिर् देश-काल-संख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः ॥२.५०॥
बाह्य-अभ्यन्तर-स्तम्भ-वृत्तिः देश-काल-संख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः ॥२.५०॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥२.५१॥
बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः ॥२.५१॥
बाह्य-अभ्यन्तर-विषय-आक्षेपी चतुर्थः ॥२.५१॥

ततः क्षीयते प्रकाशावरणम् ॥२.५२॥
ततः क्षीयते प्रकाश-आवरणम् ॥२.५२॥

धारणासु च योग्यता मनसः ॥२.५३॥

स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥२.५४॥
स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥२.५४॥
स्व-विषय-असंप्रयोगे चित्तस्य स्वरूप-अनुकारः इव इन्द्रियाणाम् प्रत्याहारः ॥२.५४॥

ततः परमा वश्यतेन्द्रियाणाम् ॥२.५५॥
ततः परमा वश्यता इन्द्रियाणाम् ॥२.५५॥

इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः।
इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः।

तृतीयो विभूतिपादः।
तृतीयः विभूति-पादः।

देशबन्धश्चित्तस्य धारणा ॥३.१॥
देश-बन्धश् चित्तस्य धारणा ॥३.१॥
देश-बन्धः चित्तस्य धारणा ॥३.१॥

तत्र प्रत्ययैकतानता ध्यानम् ॥३.२॥
तत्र प्रत्यय-एक-तानता ध्यानम् ॥३.२॥

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३.३॥
तद् एवार्थ-मात्र-निर्भासं स्वरूप-शून्यम् इव समाधिः ॥३.३॥
तत् एव अर्थ-मात्र-निर्भासम् स्वरूप-शून्यम् इव समाधिः ॥३.३॥

त्रयमेकत्र संयमः ॥३.४॥
त्रयम् एकत्र संयमः ॥३.४॥

तज्जयात् प्रज्ञालोकः ॥३.५॥
तज्-जयात् प्रज्ञालोकः ॥३.५॥
तत्-जयात् प्रज्ञा-आलोकः ॥३.५॥

तस्य भूमिषु विनियोगः ॥३.६॥

त्रयमन्तरङ्गं पूर्वेभ्यः ॥३.७॥
त्रयम् अन्तर्-अङ्गं पूर्वेभ्यः ॥३.७॥
त्रयम् अन्तः-अङ्गम् पूर्वेभ्यः ॥३.७॥

तदपि बहिरङ्गं निर्बीजस्य ॥३.८॥
तद् अपि बहिर्-अङ्गं निर्बीजस्य ॥३.८॥
तत् अपि बहिः-अङ्गम् निर्बीजस्य ॥३.८॥

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥३.९॥
व्युत्थान-निरोध-संस्कारयोर् अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्तान्वयो निरोध-परिणामः ॥३.९॥
व्युत्थान-निरोध-संस्कारयोः अभिभव-प्रादुर्भावौ निरोध-क्षण-चित्त-अन्वयः निरोध-परिणामः ॥३.९॥

तस्य प्रशान्तवाहिता संस्कारात् ॥३.१०॥
तस्य प्रशान्त-वाहिता संस्कारात् ॥३.१०॥

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥३.११॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि-परिणामः ॥३.११॥
सर्व-अर्थता-एकाग्रतयोः क्षय-उदयौ चित्तस्य समाधि-परिणामः ॥३.११॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥३.१२॥
ततः पुनः शान्तोदितौ तुल्य-प्रत्ययौ चित्तस्यैकाग्रता-परिणामः ॥३.१२॥
ततः पुनः शान्त-उदितौ तुल्य-प्रत्ययौ चित्तस्य एकाग्रता-परिणामः ॥३.१२॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥३.१३॥
एतेन भूतेन्द्रियेषु धर्म-लक्षणावस्था-परिणामा व्याख्याताः ॥३.१३॥
एतेन भूत-इन्द्रियेषु धर्म-लक्षण-अवस्था-परिणामाः व्याख्याताः ॥३.१३॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥३.१४॥
शान्तोदिताव्यपदेश्य-धर्मानुपाती धर्मी ॥३.१४॥
शान्त-उदित-अव्यपदेश्य-धर्म-अनुपाती धर्मी ॥३.१४॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥३.१५॥
क्रम-अन्यत्वम् परिणाम-अन्यत्वे हेतुः ॥३.१५॥

परिणामत्रयसंयमादतीतानागतज्ञानम् ॥३.१६॥
परिणाम-त्रय-संयमाद् अतीतानागत-ज्ञानम् ॥३.१६॥
परिणाम-त्रय-संयमात् अतीत-अनागत-ज्ञानम् ॥३.१६॥

शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥३.१७॥
शब्दार्थ-प्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥३.१७॥
शब्द-अर्थ-प्रत्ययानाम् इतर-इतर-अध्यासात् संकरः तत्-प्रविभाग-संयमात् सर्व-भूत-रुत-ज्ञानम् ॥३.१७॥

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥३.१८॥
संस्कार-साक्षात्-करणात् पूर्व-जाति-ज्ञानम् ॥३.१८॥

प्रत्ययस्य परचित्तज्ञानम् ॥३.१९॥
प्रत्ययस्य पर-चित्त-ज्ञानम् ॥३.१९॥

न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥३.२०॥
न च तत् सालम्बनं तस्य अविषयी-भूतत्वात् ॥३.२०॥
न च तत् स-आलम्बनम् तस्य अविषयी-भूतत्वात् ॥३.२०॥

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥३.२१॥
काय-रूप-संयमात् तद्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाशासंप्रयोगे ऽन्तर्-धानम् ॥३.२१॥
काय-रूप-संयमात् तत्-ग्राह्य-शक्ति-स्तम्भे चक्षुः-प्रकाश-असंप्रयोगे अन्तः-धानम् ॥३.२१॥

सोपक्रमं निरुपक्रमं च कर्म। तत्संयमादपरान्तज्ञानम् अरिष्टेभ्यो वा ॥३.२२॥
सोपक्रमं निरुपक्रमं च कर्म तत्-संयमाद् अपरान्त-ज्ञानम् अरिष्टेभ्यो वा ॥३.२२॥
सोपक्रमम् निरुपक्रमम् च कर्म तत्-संयमात् अपरान्त-ज्ञानम् अरिष्टेभ्यः वा ॥३.२२॥

मैत्र्यादिषु बलानि ॥३.२३॥
मैत्री-आदिषु बलानि ॥३.२३॥

बलेषु हस्तिबलादीनि ॥३.२४॥
बलेषु हस्ति-बलादीनि ॥३.२४॥
बलेषु हस्ति-बल-आदीनि ॥३.२४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥३.२५॥
प्रवृत्त्य्-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥३.२५॥
प्रवृत्ति-आलोक-न्यासात् सूक्ष्म-व्यवहित-विप्रकृष्ट-ज्ञानम् ॥३.२५॥

भुवनज्ञानं सूर्ये संयमात् ॥३.२६॥
भुवन-ज्ञानं सूर्ये संयमात् ॥३.२६॥
भुवन-ज्ञानम् सूर्ये संयमात् ॥३.२६॥

चन्द्रे ताराव्यूहज्ञानम् ॥३.२७॥
चन्द्रे तारा-व्यूह-ज्ञानम् ॥३.२७॥

ध्रुवे तद्गतिज्ञानम् ॥३.२८॥
ध्रुवे तद्-गति-ज्ञानम् ॥३.२८॥
ध्रुवे तत्-गति-ज्ञानम् ॥३.२८॥

नाभिचक्रे कायव्यूहज्ञानम् ॥३.२९॥
नाभि-चक्रे काय-व्यूह-ज्ञानम् ॥३.२९॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३.३०॥
कण्ठ-कूपे क्षुत्-पिपासा-निवृत्तिः ॥३.३०॥

कूर्मनाड्यां स्थैर्यम् ॥३.३१॥
कूर्म-नाड्यां स्थैर्यम् ॥३.३१॥
कूर्म-नाड्याम् स्थैर्यम् ॥३.३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥३.३२॥
मूर्ध-ज्योतिषि सिद्ध-दर्शनम् ॥३.३२॥

प्रातिभाद्वा सर्वम् ॥३.३३॥
प्रातिभाद् वा सर्वम् ॥३.३३॥
प्रातिभात् वा सर्वम् ॥३.३३॥

हृदये चित्तसंवित् ॥३.३४॥
हृदये चित्त-संवित् ॥३.३४॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३.३५॥
सत्त्व-पुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थ-संयमात् पुरुष-ज्ञानम् ॥३.३५॥
सत्त्व-पुरुषयोः अत्यन्त-असंकीर्णयोः प्रत्यय-अविशेषः भोगः पर-अर्थत्वात् स्व-अर्थ-संयमात् पुरुष-ज्ञानम् ॥३.३५॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३.३६॥
ततः प्रातिभ-श्रावण-वेदनादर्शास्वाद-वार्ता जायन्ते ॥३.३६॥
ततः प्रातिभ-श्रावण-वेदना-आदर्श-आस्वाद-वार्ताः जायन्ते ॥३.३६॥

ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३.३७॥
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ॥३.३७॥
ते समाधौ उपसर्गाः व्युत्थाने सिद्धयः ॥३.३७॥

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३.३८॥
बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनाच् च चित्तस्य पर-शरीरावेशः ॥३.३८॥
बन्ध-कारण-शैथिल्यात् प्रचार-संवेदनात् च चित्तस्य पर-शरीर-आवेशः ॥३.३८॥

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३.३९॥
उदान-जयाज् जल-पङ्क-कण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ॥३.३९॥
उदान-जयात् जल-पङ्क-कण्टक-आदिषु असङ्गः उत्क्रान्तिः च ॥३.३९॥

समानजयाज्ज्वलनम् ॥३.४०॥
समान-जयाज् ज्वलनम् ॥३.४०॥
समान-जयात् ज्वलनम् ॥३.४०॥

श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥३.४१॥
श्रोत्राकाशयोः संबन्ध-संयमाद् दिव्यं श्रोत्रम् ॥३.४१॥
श्रोत्र-आकाशयोः संबन्ध-संयमात् दिव्यम् श्रोत्रम् ॥३.४१॥

कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥३.४२॥
कायाकाशयोः संबन्ध-संयमाल् लघु-तूल-समापत्तेश् चाकाश-गमनम् ॥३.४२॥
काय-आकाशयोः संबन्ध-संयमात् लघु-तूल-समापत्तेः च आकाश-गमनम् ॥३.४२॥

बहिरकल्पिता वृत्तिर्महाविदेहा। ततः प्रकाशावरणक्षयः ॥३.४३॥
बहिर्-अकल्पिता वृत्तिर् महा-विदेहा ततः प्रकाशावरण-क्षयः ॥३.४३॥
बहिः-अकल्पिता वृत्तिः महा-विदेहा ततः प्रकाश-आवरण-क्षयः ॥३.४३॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥३.४४॥
स्थूल-स्वरूप-सूक्ष्मान्वयार्थवत्त्व-संयमाद् भूत-जयः ॥३.४४॥
स्थूल-स्वरूप-सूक्ष्म-अन्वय-अर्थवत्त्व-संयमात् भूत-जयः ॥३.४४॥

ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥३.४५॥
ततो ऽणिमादि-प्रादुर्-भावः काय-संपत् तद्-धर्मानभिघातश् च ॥३.४५॥
ततः अणिम-आदि-प्रादुर्भावः काय-संपत् तत्-धर्म-अनभिघातः च ॥३.४५॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥३.४६॥
रूप-लावण्य-बल-वज्र-संहननत्वानि काय-संपत् ॥३.४६॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥३.४७॥
ग्रहण-स्वरूपास्मितान्वयार्थवत्त्व-संयमाद् इन्द्रिय-जयः ॥३.४७॥
ग्रहण-स्वरूप-अस्मिता-अन्वय-अर्थवत्त्व-संयमात् इन्द्रिय-जयः ॥३.४७॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥३.४८॥
ततो मनो-जवित्वं विकरण-भावः प्रधान-जयश् च ॥३.४८॥
ततः मनः-जवित्वम् विकरण-भावः प्रधान-जयः च ॥३.४८॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥३.४९॥
सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च ॥३.४९॥
सत्त्व-पुरुष-अन्यता-ख्याति-मात्रस्य सर्व-भाव-अधिष्ठातृत्वम् सर्व-ज्ञातृत्वम् च ॥३.४९॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥३.५०॥
तद्-वैराग्याद् अपि दोष-बीज-क्षये कैवल्यम् ॥३.५०॥
तत्-वैराग्यात् अपि दोष-बीज-क्षये कैवल्यम् ॥३.५०॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥३.५१॥
स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनर्-अनिष्ट-प्रसङ्गात् ॥३.५१॥
स्थानि-उपनिमन्त्रणे सङ्ग-स्मय-अकरणम् पुनः-अनिष्ट-प्रसङ्गात् ॥३.५१॥

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥३.५२॥
क्षण-तत्-क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥३.५२॥
क्षण-तत्-क्रमयोः संयमात् विवेकजम् ज्ञानम् ॥३.५२॥

जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥३.५३॥
जाति-लक्षण-देशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ॥३.५३॥
जाति-लक्षण-देशैः अन्यता-अनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥३.५३॥

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥३.५४॥
तारकं सर्व-विषयं सर्वथा-विषयम् अक्रमं चेति विवेकजं ज्ञानम् ॥३.५४॥
तारकम् सर्व-विषयम् सर्वथा-विषयम् अक्रमम् च इति विवेकजम् ज्ञानम् ॥३.५४॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥३.५५॥
सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् ॥३.५५॥

इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः
इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयः विभूति-पादः

चतुर्थः कैवल्यपादः।
चतुर्थः कैवल्य-पादः।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥४.१॥
जन्मौषधि-मन्त्र-तपः-समाधि-जाः सिद्धयः ॥४.१॥
जन्म-औषधि-मन्त्र-तपः-समाधि-जाः सिद्धयः ॥४.१॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥४.२॥
जात्य्-अन्तर-परिणामः प्रकृत्य्-आपूरात् ॥४.२॥
जाति-अन्तर-परिणामः प्रकृति-आपूरात् ॥४.२॥

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥४.३॥
निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥४.३॥
निमित्तम् अप्रयोजकम् प्रकृतीनाम् वरण-भेदः तु ततः क्षेत्रिकवत् ॥४.३॥

निर्माणचित्तान्यस्मितामात्रात् ॥४.४॥
निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥४.४॥
निर्माण-चित्तानि अस्मिता-मात्रात् ॥४.४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥४.५॥
प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥४.५॥
प्रवृत्ति-भेदे प्रयोजकम् चित्तम् एकम् अनेकेषाम् ॥४.५॥

तत्र ध्यानजमनाशयम् ॥४.६॥
तत्र ध्यान-जम् अनाशयम् ॥४.६॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥४.७॥
कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥४.७॥
कर्म अशुक्ल-अकृष्णम् योगिनः त्रि-विधम् इतरेषाम् ॥४.७॥

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥४.८॥
ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥४.८॥
ततः तत्-विपाक-अनुगुणानाम् एव अभिव्यक्तिः वासनानाम् ॥४.८॥

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥४.९॥
जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं स्मृति-संस्कारयोर् एक-रूपत्वात् ॥४.९॥
जाति-देश-काल-व्यवहितानाम् अपि आनन्तर्यम् स्मृति-संस्कारयोः एक-रूपत्वात् ॥४.९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥४.१०॥
तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥४.१०॥
तासाम् अनादित्वम् च आशिषः नित्यत्वात् ॥४.१०॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥४.११॥
हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥४.११॥
हेतु-फल-आश्रय-आलम्बनैः संगृहीतत्वात् एषाम् अभावे तत्-अभावः ॥४.११॥

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥४.१२॥
अतीतानागतं स्वरूपतो ऽस्त्य् अध्व-भेदाद् धर्माणाम् ॥४.१२॥
अतीत-अनागतम् स्वरूपतः अस्ति अध्व-भेदात् धर्माणाम् ॥४.१२॥

ते व्यक्तसूक्ष्मा गुणात्मानः ॥४.१३॥
ते व्यक्त-सूक्ष्मा गुणात्मानः ॥४.१३॥
ते व्यक्त-सूक्ष्माः गुण-आत्मानः ॥४.१३॥

परिणामैकत्वाद्वस्तुतत्त्वम् ॥४.१४॥
परिणामैकत्वाद् वस्तु-तत्त्वम् ॥४.१४॥
परिणाम-एकत्वात् वस्तु-तत्त्वम् ॥४.१४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥४.१५॥
वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥४.१५॥
वस्तु-साम्ये चित्त-भेदात् तयोः विभक्तः पन्थाः ॥४.१५॥

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥४.१६॥
न चैकचित्त-तन्त्रं वस्तु तद्-अप्रमाणकं तदा किं स्यात् ॥४.१६॥
न च एक-चित्त-तन्त्रम् वस्तु तत्-अप्रमाणकम् तदा किम् स्यात् ॥४.१६॥

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४.१७॥
तद्-उपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४.१७॥
तद्-उपराग-अपेक्षित्वात् चित्तस्य वस्तु ज्ञात-अज्ञातम् ॥४.१७॥

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥४.१८॥
सदा ज्ञाताश् चित्त-वृत्तयस् तत्-प्रभोः पुरुषस्यापरिणामित्वात् ॥४.१८॥
सदा ज्ञाताः चित्त-वृत्तयः तत्-प्रभोः पुरुषस्य अपरिणामित्वात् ॥४.१८॥

न तत्स्वाभासं दृश्यत्वात् ॥४.१९॥
न तत् स्वाभासं दृश्यत्वात् ॥४.१९॥
न तत् स्व-आभासम् दृश्यत्वात् ॥४.१९॥

एकसमये चोभयानवधारणम् ॥४.२०॥
एक-समये चोभयानवधारणम् ॥४.२०॥
एक-समये च उभय-अनवधारणम् ॥४.२०॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥४.२१॥
चित्तान्तर-दृश्ये बुद्धि-बुद्धेर् अतिप्रसङ्गः स्मृति-संकरश् च ॥४.२१॥
चित्त-अन्तर-दृश्ये बुद्धि-बुद्धेः अतिप्रसङ्गः स्मृति-संकरः च ॥४.२१॥

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥४.२२॥
चितेर् अप्रतिसंक्रमायास् तद्-आकारापत्तौ स्व-बुद्धि-संवेदनम् ॥४.२२॥
चितेः अप्रतिसंक्रमायाः तत्-आकार-आपत्तौ स्व-बुद्धि-संवेदनम् ॥४.२२॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥४.२३॥
द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥४.२३॥
द्रष्टृ-दृश्य-उपरक्तम् चित्तम् सर्व-अर्थम् ॥४.२३॥

तदसंख्येय-वासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥४.२४॥
तद् असंख्येय-वासनाभिश् चित्रम् अपि परार्थं संहत्य-कारित्वात् ॥४.२४॥
तत् असंख्येय-वासनाभिः चित्रम् अपि पर-अर्थम् संहत्य-कारित्वात् ॥४.२४॥

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥४.२५॥
विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः ॥४.२५॥
विशेष-दर्शिनः आत्म-भाव-भावना-विनिवृत्तिः ॥४.२५॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥४.२६॥
तदा विवेक-निम्नं कैवल्य-प्राग्भारं चित्तम् ॥४.२६॥
तदा विवेक-निम्नम् कैवल्य-प्राग्भारम् चित्तम् ॥४.२६॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥४.२७॥
तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥४.२७॥
तत्-छिद्रेषु प्रत्यय-अन्तराणि संस्कारेभ्यः ॥४.२७॥

हानमेषां क्लेशवदुक्तम् ॥४.२८॥
हानम् एषां क्लेशवद् उक्तम् ॥४.२८॥
हानम् एषाम् क्लेशवत् उक्तम् ॥४.२८॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥४.२९॥
प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेक-ख्यातेर् धर्म-मेघः समाधिः ॥४.२९॥
प्रसंख्याने अपि अकुसीदस्य सर्वथा विवेक-ख्यातेः धर्म-मेघः समाधिः ॥४.२९॥

ततः क्लेशकर्मनिवृत्तिः ॥४.३०॥
ततः क्लेश-कर्म-निवृत्तिः ॥४.३०॥

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥४.३१॥
तदा सर्वावरण-मलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ॥४.३१॥
तदा सर्व-आवरण-मल-अपेतस्य ज्ञानस्य अनन्त्यात् ज्ञेयम् अल्पम् ॥४.३१॥

ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् ॥४.३२॥
ततः कृतार्थानां परिणाम-क्रम-समाप्तिर् गुणानाम् ॥४.३२॥
ततः कृत-अर्थानाम् परिणाम-क्रम-समाप्तिः गुणानाम् ॥४.३२॥

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥४.३३॥
क्षण-प्रतियोगी परिणामापरान्त-निर्ग्राह्यः क्रमः ॥४.३३॥
क्षण-प्रतियोगी परिणाम-अपर-अन्त-निर्ग्राह्यः क्रमः ॥४.३३॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥४.३४॥
पुरुषार्थ-शून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप-प्रतिष्ठा वा चिति-शक्तिर् इति ॥४.३४॥
पुरुष-अर्थ-शून्यानाम् गुणानाम् प्रतिप्रसवः कैवल्यम् स्वरूप-प्रतिष्ठा वा चिति-शक्तिः इति ॥४.३४॥

इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ।
इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ।

इति पातञ्जलयोगसूत्राणि ॥
इति पातञ्जल-योग-सूत्राणि ॥

Keine Kommentare:

Kommentar veröffentlichen